Krishna Mantra Kavacham With Lyrics | कृष्णा मंत्र कवचम | Most Powerful Kavacham| Lord Krishna Songs
  • 2 years ago
Listen to Krishna Mantra Kavacham With Lyrics only on at Rajshri Soul

Lyrics-
ॐ श्रीं नमः श्रीकृष्णाय परिपूर्णतमाय च ।
मंत्रेषु मंत्रराजोऽयं महान् सप्तदशाक्षरः ॥ १॥

सिद्धोऽयं पंचलक्षेण जपेन मुनिपुंगव ।
तद्दशांशं च हवनं तद्दशांशाभिषेचनम् ॥ २॥

तर्पणं तद्दशांशं च तद्दशांशं च मार्जनम् ।
सुवर्णानां च शतकं पुरश्चरणदक्षिणा ॥ ३॥

मंत्रसिद्धस्य पुंसश्च विश्वं करतलं मुने ।
शक्तः पातुं समुद्रांश्च विश्वं संहर्त्तुमीश्वरः ।
पांचभौतिकदेहेन वैकुण्ठं गन्तुमीश्वरः ॥ ४॥

तस्य संस्पर्शमात्रेण पादपंकजरेणुना ।
पूतानि सर्वतीर्थानि सद्यः पूता वसुन्धरा ॥ ५॥
Recommended