Ranganath Ashtakam With Lyrics | रङ्गनाथाष्टकम् | Ranganatha Swamy Stotram | Devotional Mantras
  • 2 years ago
Sri Ranganatha Ashtakam was composed by Sri Adi Shankaracharya Bhagavatpada when Bhagavatpada was travelling across India for their spiritual journey. When Bhagavatpada reached the Sri Ranganatha Temple in Srirangam he was overwhelmed by the purity and heavenly form of the idol and fell in love with the beauty of Sri Ranganatha god.

Lyrics :

आनन्दरूपे निजबोधरूपे ब्रह्मस्वरूपे श्रुतिमूर्तिरूपे ।
शशाङ्करूपे रमणीयरूपे श्रीरङ्गरूपे रमतां मनो मे ॥१॥

कावेरितीरे करुणाविलोले मन्दारमूले धृतचारुकेले ।
दैत्यान्तकालेऽखिललोकलीले श्रीरङ्गलीले रमतां मनो मे ॥२॥

लक्ष्मीनिवासे जगतां निवासे हृत्पद्मवासे रविबिम्बवासे ।
कृपानिवासे गुणबृन्दवासे श्रीरङ्गवासे रमतां मनो मे ॥३॥

ब्रह्मादिवन्द्ये जगदेकवन्द्ये मुकुन्दवन्द्ये सुरनाथवन्द्ये ।
व्यासादिवन्द्ये सनकादिवन्द्ये श्रीरङ्गवन्द्ये रमतां मनो मे ॥४॥

ब्रह्माधिराजे गरुडाधिराजे वैकुण्ठराजे सुरराजराजे ।
त्रैलोक्यराजेऽखिललोकराजे श्रीरङ्गराजे रमतां मनो मे ॥५॥

अमोघमुद्रे परिपूर्णनिद्रे श्रीयोगनिद्रे ससमुद्रनिद्रे ।
श्रितैकभद्रे जगदेकनिद्रे श्रीरङ्गभद्रे रमतां मनो मे ॥६॥

सचित्रशायी भुजगेन्द्रशायी नन्दाङ्कशायी कमलाङ्कशायी ।
क्षीराब्धिशायी वटपत्रशायी श्रीरङ्गशायी रमतां मनो मे ॥७॥

इदं हि रङ्गं त्यजतामिहाङ्गं पुनर्न चाङ्गं यदि चाङ्गमेति ।
पाणौ रथाङ्गं चरणेऽम्बु गाङ्गं याने विहङ्गं शयने भुजङ्गम् ॥८॥

रङ्गनाथाष्टकम्पुण्यं प्रातरुत्थाय यः पठेत् ।
सर्वान् कामानवाप्नोति रङ्गिसायुज्यमाप्नुयात् ॥९॥
Recommended