Shri Krishna Stotram With Lyrics 11 Times | कृष्णा स्तोत्रम | Lord Krishna Bhajan | Rajshri Soul

  • 2 years ago
Listen Popular Devotional "Shri Krishna Stotram 11 Times With Lyrics" | कृष्णा स्तोत्रम | Lord Krishna Bhajan | Rajshri Soul

Lyrics :
कृष्णं विष्णुं वासुदेवं परमात्मानमीश्वरम् ।
गोविन्दं पर्मानन्दमेकमक्षरमच्युतम् ॥ १॥

गोपेश्वरं च गोपीशं गोपं गोरक्षकं विभुम् ।
गवामीशं च गोष्ठस्थं गोवत्सपुच्छधारिण्म् ॥ २॥

गोगोपगोपीमध्यस्थं प्रधानं पुरुषोत्तमम् ।
वन्देऽनवद्धमनघं श्यामं शान्तं मनोहरम् ॥ ३॥

इत्युच्चार्य समुत्तिष्ठन् रत्नसिंहासने वरे ।
ब्रह्मविष्णुमहेशांस्तान्संभाष्य स उवास ह ॥ ४॥

चतुर्विशतिनामानि धर्मवक्त्रोद्गतानि च ।
यः पठेत्प्रातरुत्थाय स सुखी सर्वतो जयी ॥ ५॥

मृत्युकाले हरेनमि तस्य साध्यं भवेद्ध्रुवम् ।
स यात्यन्ते हरेः स्थानं हरिदास्यं भवेद्ध्रुवम् ॥ ६॥

नित्यं धर्मस्तं घटते नाधर्मे तद्रतिर्भवेत् ।
चतुर्वर्गफलं तस्य शश्वत्करगतं भवेत् ॥ ७॥

तं दृष्ट्वा सर्वपापानि पलायन्ते भयेन च ।
भयानि चैव दुःखानि वैनतेयमिवोरेगाः ॥ ८॥

इति ब्रह्मावैवर्ते धर्मकृतं श्रीकृष्णस्तोत्रम् ।

Recommended